वैदिक-दर्शने 'ऋत

Authors

  • डॉ. मृगांक मलासी सहायकाचार्य:, संस्कृतविभाग:, डॉ. शिवानन्दनौटियाल: राजकीयस्नातकोत्तरमहाविद्यालय: कर्णप्रयागम् उत्तराखण्ड: Author

Abstract

अस्मिन् प्रबन्धे वैदिक-दर्शने 'ऋत'-तत्त्वस्य व्यापकं स्वरूपं विशदीकृतम्। 'ऋत' इति वैदिक-संकल्पना केवलं सत्यस्य वा नैतिक-नियमस्य रूपं न, किन्तु ब्रह्माण्डस्य समन्वय-शक्ति, विश्व-व्यवस्था, प्राकृतिक-नियमः, आध्यात्मिक-सत्यं च इति अनेक आयामान् समावेश्य प्रतिष्ठिता। ऋग्वेदादिषु 'ऋत' विश्वस्य मूलभूत-आधारत्वेन, देवतानां प्रेरक-तत्त्वत्वेन, मानव-धर्मस्य मार्गदर्शकत्वेन च निरूप्यते। अस्य तत्त्वस्य ब्रह्माण्डीयः, नैतिकः, सामाजिकः, आधिदैविकश्च पक्षाः विस्तरेण विश्लेषिताः। 'ऋत–सत्य–धर्म' इति त्रयी वैदिक-चिन्तनस्य मूल-सूत्रं भवति, यत्र सत्यं वाङ्मय-स्वरूपम्, धर्मः आचाररूपम्, ऋतं तु विश्वव्यवस्थारूपम् इति प्रतीयते। प्रबन्धे अन्य-दार्शनिक-परम्पराभिः (यथा लोगोस्, ताओ, natural law) सह तुलनात्मकं परीक्षणं कृतम्, यत् ऋतस्य वैश्विक-महत्त्वं स्पष्टयति। उपसंहारे 'ऋत'-तत्त्वं वैदिक-सांस्कृतिकस्य दार्शनिकस्य च परम्परायाः सर्वाधिकं मौलिकं योगदानम् इति निरूपितम्। अयं शोधः ऋत-सिद्धान्तस्य आधुनिक-सन्दर्भेषु प्रासङ्गिकतां, पर्यावरण-सन्तुलनस्य, सामाजिक-न्यायस्य, वैश्विक-व्यवस्थायाश्च आधार-तत्त्वत्वेन च प्रतिपादयति।

 प्रमुख-शब्दा: ऋतम्, वैदिक-दर्शनम्, विश्व-व्यवस्था, सत्यम्, धर्मः, ब्रह्माण्डीय-नियमः, आध्यात्मिकता, नैतिक-व्यवस्था, वरुणः, मित्रः, ऋग्वेदः।

Downloads

Published

2025-12-20

How to Cite

वैदिक-दर्शने ’ऋत. (2025). VED International Journal of Arts, Commerce and Technology, 1(1), 52-63. https://vijact.com/index.php/vijact/article/view/5